गीताशास्त्रमिदं पुण्यं यः पठेत्प्रयतः पुमान् । विष्णोः पदमवाप्नोति भयशोकादिवर्जितः ॥ १॥
गीताध्ययनशीलस्य प्राणायामपरस्य च । नैव सन्ति हि पापानि पूर्वजन्मकृतानि च ॥ २॥
मलनिर्मोचनं पुंसां जलस्नानं दिने दिन । सकृद्गीताम्भसि स्नानं संसारमलनाशम् ॥ ३॥
गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः । या स्वयं पद्मनाभस्य मुखपद्माद्विनिःसृता ॥ ४॥
भारतामृतसर्वस्वं विष्णोर्वक्त्राद्विनिः सृतम् । गीतागंगोदकं पीत्वा पुनर्जन्म न विद्यते ॥ ५॥
सर्वोपनिषदो गावो दोग्धा गोपालनंदनः । पार्थों वत्सः सुधीर्भोक्ता दुग्धं गीतामृतं महत् ॥ ६॥
एकं शास्त्रं देवकी पुत्रगीतमेको देवो देवकीपुत्र एव । एको मन्त्रस्तस्य नामानि यानि कर्माप्येकं तस्य देवस्य सेवा ॥ ७॥
|