મુખપૃષ્ઠ > ધર્મ > હિન્દુ > હિન્દુ ધર્મ વિશે
સૂચનામિત્રને મોકલોઆ પેજ પ્રિન્ટ કરો
 
સપ્ત શ્લોકી ગીતા
W.D

ओमित्येकाक्षरं ब्रह्म व्याहरन्‌ मामनुस्मरन
यः प्रयाति त्यजन्‌ देहं स याति परमां गतिम्‌ ॥१॥

स्थाने हृषीकेश तव प्रकीर्त्या जगत्‌ प्रहृष्यत्यनुरज्यते च ।
रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसंघाः ॥२॥

सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम्‌ ।
सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥३॥

कविं पुराणमनुशासितार- मणोरणीयांसमनुस्मरेद्यः
सर्वस्य धातारमचिन्त्यरूप मादित्यवर्णं तमसः परस्तात्‌ ॥४॥

उर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम्‌ ।
छन्दांसि यस्य पर्णान यस्तं वेद स वेदवित्‌ ॥५॥

सर्वस्य चाहं हृदि संनिविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च ।
वेदैश्च सर्वेरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम्‌ ॥६॥

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥७॥
ઘણું બધુ
શ્રીમદ ભગવતગીતા માહાત્મ્યમ
હવે રામાયણ વધારે ભવ્ય
શિવ ત્રિમૂર્તિ
ગાયત્રી મંત્રનો અર્થ
મંગળ કળશનું મહત્વ
જીવન સાથેનો આપણો વ્યવહાર