કૃષ્ણ યજ્ઞ સ્વાહાકાર મંત્ર: ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्। स भूमिर्ठ. सर्व्वत स्पृत्वाऽत्यतिष्ठद्दशांगुलम्॥१॥ कृष्णाय स्वाहा।
पुरुष ऽएवेदर्ठ. सर्वं यद्भूतं यच्च भाव्यम्। उतामृतत्वस्येशानो यदन्नेनातिरोहति॥२॥ कृष्णाय स्वाहा।
एतावानस्य महिमातो ज्यायांश्च पूरुषः। पादोऽस्य व्विश्वा भूतानि त्रिपादस्यामृतं दिवि॥३॥ कृष्णाय स्वाहा।
त्रिपादूर्ध्व ऽउदैत्पुरुषः पादोऽस्येहाभवत्पुनः। ततो व्विष्वंग व्यक्रामत्साशनानशने ऽअभि॥४॥ कृष्णाय स्वाहा।
ततो व्विराडजायत व्विराजो ऽअधि पूरुषः। स जातो ऽअत्यरिच्यत पश्चाद्भूमिमथो पुरः॥५॥ कृष्णाय स्वाहा।
तस्माद्यज्ञात्सर्व्वहुतः सम्भृतं पृषदाज्यम्। पशूँस्ताँश्चकक्रे व्वायव्यानारण्या ग्राम्याश्च ये॥६॥ कृष्णाय स्वाहा।
तस्माद्यज्ञात्सर्व्वहुत ऽऋचः सामानि जज्ञिरे। छन्दार्ठ.सि जज्ञिरे तस्माद्यजुस्तस्मादजायत॥७॥ कृष्णाय स्वाहा।
तस्मादश्वा ऽअजायन्त ये के चोभयादतः। गावो ह जज्ञिरे तस्मात्तस्माज्जाता ऽअजावयः॥८॥ कृष्णाय स्वाहा।
तं यज्ञं बर्हिषि प्रौक्षन्नपुरुषं जातमग्रतः। तेन देवा ऽअयजन्त साध्या ऽऋषयश्च ये॥९॥ कृष्णाय स्वाहा।
यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन्। मुखं किमस्यासीत्किं बाहू किमूरू पादा ऽउच्येते॥१०॥ कृष्णाय स्वाहा।
ब्राह्मणोऽस्य मुखमासीद् बाहू राजन्यः कृतः। ऊरू तदस्य यद्वैश्यः पद्भ्यार्ठ. शूद्रोऽ अजायत॥११॥ कृष्णाय स्वाहा।
चन्द्रमा मनसो जातश्चक्षोः सूर्यो ऽअजायत। श्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत॥१२॥ कृष्णाय स्वाहा।
नाब्भ्या ऽआसीदन्तरिक्षर्ठ. शीर्ष्णो द्यौः समवर्त्तत। पद्भ्यां भूमिर्दि्दशः श्रोत्रात्तथा लोकां ऽअकल्पयन्॥१३॥ कृष्णाय स्वाहा।
यत्पुरुषेण हविषा देवा यज्ञमतन्वत। वसन्तो ऽस्यासीदाज्यं ग्रीष्म ऽइध्मः शरद्धविः॥१४॥ कृष्णाय स्वाहा।
सप्तास्यासन्परिधयस्त्रिः सप्त समिधः कृताः। देवा यद्यज्ञं तन्वाना ऽअबघ्नन्पुरुषं पशुम्॥१५॥ कृष्णाय स्वाहा।
यज्ञेन यज्ञमयजन्त देवास्तानि धर्म्माणि प्रथमान्यासन्। ते हनाकं महिमानः सचन्त यत्र पूर्व्वे साध्याः सन्ति देवाः॥१६॥ कृष्णाय स्वाहा।
(Source - શુક્લ યજુર્વેદ 31/1-16 માંથી)
|